अन्वगान्मां तरलिका रत्नाभरणभूषितम् ।
सुपुष्पतवनां लोभद्रमरीव मधुश्रियम् ॥ ३१ ॥
तस्यां अवणचुम्बिन्यां मञ्जर्यामतिलोलुपाः ।
अन्वयुर्मा मधुकर तां सञ्चारिणीमिव ॥ ३२ ॥
पद्मपत्रविशालाक्षीं प्रयान्तीं पचवाधराम् ।
मधुलक्ष्मीमिवापश्यन्नुद्यानवनदेवताः ॥ ३३ ॥
विलङ्घय पुष्पितप्राय कल्पानोकहवारिकाम् ।
मधुत्रतीव सरसे पुण्डरीकेऽनुरक्तधीः ॥ ३४ ॥
ही! तरलिते कामं अधमागविलम्बजः ।
क्षणोऽप्यभिसरन्त्या मे कान्तं युगशतायते ।। ३५ ।।
अपि नामायमिन्दुस्ते ममाभिमुखमानयेत् ।
प्रत्यूषो विप्रयुक्ताया पद्मिन्या इव भास्करम् ॥ ३६ ॥
मया सार्ध तपति चेत्कामस्तं च तदा कृती ।
1व्योकारः परिततेन तप्तसंयोजनादिव ॥ ३७ ॥
त्यक्ष्याम्यहं प्रियाश्लेषात्कामजं सज्वरं क्षणात् ।
ओषधीशकरस्पर्शात् प्रैष्मं 2तापमिवौपधिः ॥ ३८ ॥
स्वयमेवागतां कान्तो वृषस्यन्तीति मां पुनः ।
जिहेमि धिक्करोतीति धनञ्जय इवोर्वशीम् ॥ ३९ ॥
तयाऽहं सँलन्येवं औल्डवयादतिकतरा।।
आकृष्टैवेन्द्रियैरुपमच्छोदसरसस्तटम् ॥ ४० ॥
1. धोकरः परितनेन तप्तसंयोजयेव इति महुआ ।
2. तपरिखे षधीरिति मातृका ।।