पृष्ठम्:कादम्बरीकथासारः.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
कादम्बरीकथासारः


श्रुत्वा रात्रिरियं क्षीणा दीनं मत्परिदेवितम् ।
पर्यस्तचन्द्रवदना समदुःखेव लक्ष्यते ।! ७३ ॥

तिष्ठेत्सत्यं विना धर्मः तिष्ठेदिध्मं विनानलः ।
पुण्डरीकं विना देहे न तिष्ठेन्मम जीवितम् ॥ ७४ ॥

यत्र कान्त ! गतोऽसि त्वं तत्रैवानुगतास्म्यहम् ।
रत्नाकरं परित्यज्य कुतो यास्यति जाह्नवी ॥ ७५ ॥

जीवतीति महाश्वेता पुण्डरीकं विना क्षणम् ।
एतावतैव जिह्वेमि मरणं तु महोत्सवः ॥ ७६ ।

कपिञ्जलं 1परिष्वज्य तेनैव विवशापतम् ।
छिन्नमूलेन वृक्षेण लतेव धरणीतले ॥ ७७ ॥

सखा ते मां परित्यज्य कामबाणैर्दिवं गतः।
गुरूपदेशाद् दुःखाढ्यां मुमुक्षुरिव संसृतिम् ॥ ७८ ॥

गतो भवतु मां त्यक्त्वा कालात्प्रणयिनं बहोः ।
कथं नु त्वां परित्यज्य निर्घृणः त्रिदिवं गतः ।। ७९ ।।

शोकासहिष्णुः शोकार्तमेवमुक्त्वा कपिञ्जलम् ।
तया तन्व्या निषिद्धाऽपि मरणायोद्यताऽभवम् ॥ ८० ॥

तस्मिन्क्षणे विम्बमनुष्णभानो-
र्भित्वा पुमा2न्कश्चन दिव्यमूर्तिः ।
स्वर्गात्पतन्देव इवास्त पुण्यो
ज्योतिष्पथाद्भूतलमाससाद ।। ८१ ॥

1. परन्यज्य इति मतृका ।
2. न्दर्शन दिल्य इति मातृ ।