पृष्ठम्:कादम्बरीकथासारः.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
श्री त्रिविक्रमविरचितः


हा पुण्डरीक! के गतोऽस्यनाथ
हित्वेति चक्रन्द विमुक्तकण्ठम् ॥ ९३ ॥

प्रनष्टसंज्ञामवनैौ पतन्ती-
मादाय दोभ्यं सदय दयालुः।
तामसमारोप्य निमीलिताक्षीं
रुरोद धीरेऽपि चिरं नरेन्द्रः ॥ ९४ ॥

ततस्तदीयं चरितं निशम्य
शोकेन 1संप्राप्त इवाशु मोहम् ।
अधोमुखः पश्चिमरौल्भृङ्ग
दौदन्वतीष्वप्सु पपात भानुः ॥ ९५ ॥

आश्वास्यमाना नृपनन्दनेन
शोकेन कामं कलुषीकृतापि ।
विधिं विधिज्ञ विधिवद्विधाय
सान्ध्यं शनैराश्रममाससाद ॥ ९६ ॥

मार्गेण पश्चाद्विधिचोदितेन
समाप्य साध्य नियमं नरेन्द्रः ।
शिलातले कल्पयति स्म शय्यां
मृदीयसा चन्दनपलवेन ॥ ९७ ॥

या साक्षिणी ते विधिवैशसस्य
समानदुःख क नु सा गतेति ।
शय्यागतस्तां शयनोपविष्ट
भूयोऽपि पप्रच्छ नरेन्द्रसूनुः ॥ ९८ ॥


1. संप्राप्तम्भिव इति मातृका। ।