पृष्ठम्:कादम्बरीकथासारः.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
श्री त्रिविक्रमविरचितः


अकृत्रिमं सख्यमहेतुपूर्व
कुमुद्वतीचन्द्रिकयोरिवासीत् ।। १०४ ॥

सा दुष्कृतिं मे विधिनोपनीता
मकण्डनिर्घातनिपातघोराम् ।
श्रुत्वा प्रवाते कदलीव शोका .
दवेपताल्यन्तमरालीशी ।। १०१ ॥

कमै चिदम्बानुमतो वराय
बलेन मां दित्सति चेत्पिता मे ।
प्रायोपवेशेन विषेण वापि
मोक्ष्यामि दुःखानलदमायुः ।। १०६ ॥

अतः परं ब्रह्नणि लीनबुद्धिः
सखीव साहं च तपश्चरामि ।
इति प्रतिज्ञां स्थिरधीरकार्षी
त्सखीजनस्याग्रत एव वान ।। १०७ ।।

अथात्मनश्चित्ररथेन राज्ञा
निर्बन्धतः सान्त्वपरैर्वचोभिः ।
निवर्यमनापि न सा निवृत्ता
धृष्टा समुद्राभिमुखी नदीव ।। १०८ ।।

अलङ्कयन्तीं निजसंविदं तां
वेलां समुद्रोर्मिमिवावलोक्य ।
वात्सल्यवान्वायुतुल्यबाहु
रदूयतात्यन्तमहर्निशं सः ।। १०९ ।।