पृष्ठम्:कादम्बरीकथासारः.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
कादम्बरीकथासारः


स्वस्थोऽपि को मतिं कुर्यादस्वन्ते कर्मणीदृशे।
दुःखाभिभूतहृदयः किटुतास्मद्विधो जनः ॥ ११ ॥

सहजप्रेमनिष्यन्दनिर्भरं हृदयं पुनः ।
अतिनिष्टुरतां प्राप्तं कथमेकपदे तव ॥ १२ ॥

केयूरके वदत्येवं ततः संचिन्त्य सा क्षणम् ।
अहमागत्य वक्ष्यामीत्युक्ता तं प्राहिणोगुनः ॥ १३ ॥

इतो गन्धर्वलोकं त्वं मया संप्राप्तुमर्हसि ।
प्रस्थाप्रस्थान्तरं मेरोः सन्ध्ययेव प्रभाकरः ॥ १४ ॥

इत्युक्तोऽनुपदं राजा तस्मात्साधु तयोत्थितः ।
वर्षाश्रिया नभोमागें गर्जन्निव गिरेर्धनः ॥ १५ ॥

स महाश्वेतया सार्ध द्रष्टुं कादम्बरीं ययैौ ।
औत्सुक्यादुत्तरामाशां भास्वानिव मधुश्रिया ॥ १६ ॥

स्पृष्टा गऊपयः शीतं आधूय हरिचन्दनान् ।
शिषेविरे त क्लान्ताध कैलासतटवायवः ।। १७ ।।

तन्मुखदुर्लभान्लोके श्रुत्वा कादम्बरीगुणान्
तद्वरज्ज्वाकृष्टो हेमकूटमवाप सः ॥ १८ ॥

दीर्घिका मज़तां यत्र जन्मान्तरमलापहाः ।
अभीष्टफलदाः पुंसां यत्नवानमहीरुहाः ॥ १९ ॥

नित्ययौवनयोर्यत्र दम्पत्योः प्रेमनिम्नयोः ।
न विप्रलंभः शृङ्गारः स्वप्नेऽपि विरहः कुतः ॥ २० ॥

ध्वजाग्रोलिखिताक्शं विचित्रमणितोरणम् ।
नृपश्चित्ररथागारं सप्राकारं व्यलोकयत् ॥ २१ ॥