पृष्ठम्:कादम्बरीकथासारः.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
कादम्बरीकथासारः


केयूरकेण कथितः सोऽयं किं नृपनन्दनः ।
य दृष्टा सिन्धुवेलेव चन्द्रमन्तर्न माति मुत् ॥ ५२ ॥

एकत्र पक्षणतदेवं सर्गगुरोर्विधेः ।
कुलाननानां मुग्धानां का गतिर्मरणादृते ॥ ५३ ॥

प्रतिज्ञामन्यथाकर्तु किं मे कामः समागतः ।
प्रसादयितुमेनां वा दुःखितामित्यचिन्तयत् ॥ ५४ ॥ ।

करेण गाढमालिकय शेखककणिक पुनः ।
कादम्बरीं महाश्वेता पप्रच्छानामये मुहुः ॥ ५५॥

अमेयकुशलं जातमभीष्टजनदर्शनात् ।।
विलज़मानाप्येवं सा कृच्प्रदिव जगाद ताम् ॥ ५६ ॥

तस्याः प्रतिवचः श्रुत्वा महाश्वेता कुशाग्रधीः ।
किञ्चिद्विवृत्तवदना चन्द्रापीडमुदैक्षत ॥ ५७ ॥

ततस्तयोर्निषेदुष्योरन्योन्यमनुरक्तयोः।
निषसाद नृपो मध्ये दिवसः सन्ध्ययोरिव ॥ ५८ ॥

कादम्बरी तपस्विन्याः पादौ प्रक्षाल्य वारिणा ।
उत्तरीयेण संमार्य पुनरासनमासदत् ॥ ५९ ॥

कदम्बर्याः सखी कापि मदलेखेति विश्रुता।
अनिच्छतोऽपि नृपतेः प्रक्षालितवती पदे ॥ ६० ॥

ततः स्वीकृत्य ताम्बूलमूर्मिकारनरञ्जितम् ।
राने कादम्बरीमूर्तमनुरागमिवार्पयत् ।। ६१ ॥

६१. ऊर्मिज्ञ अहीयकम् ।