पृष्ठम्:कादम्बरीकथासारः.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
कादम्बरीकथासारः


कादम्बरी च प्रसादमारुह्य मदनातुरा ।
कुमारे बद्धभावैवममीमांशिष्ट दुःखिता ॥ ७२ ॥

न श्रुतो न च दृष्टोऽयं नानुभूतो न च स्मृतः ।
तथाप्युत्कलिकारूढं चित्तमेनं न मुञ्चति ॥ ७३ ॥

स्नेहः कामकृतः प्रायो दर्शनादेव जायते ।
अत एव महाता दुष्करे तपसि स्थिता ॥ ७४ ॥

पूर्वं सख्यास्तपः श्रुत्वा राजासीन्मम चेतसि ।
इदानीं तद्वियुक्तायां निन्दा च हतजीविते ॥ ७५ ॥

महावेता प्रिये याते कठिना तपसि स्थिता।
अहमेनं परित्यज्य न क्षणं जीवितुं क्षमा ।। ७६ ॥

इङ्गितज्ञा महाश्वेता मद्भावं न न वेति हि ।
अनुभूतरसमेनां निहंतुं कथमीश्वरी ॥ ७७ ॥

संविदं तादृशीं कृत्वा सरखीनामग्रतः पुरा।
पश्येयमद्य निर्लज़ा कथे तासां मुखान्यहम् ॥ ७८ ॥

प्रिये क्षणवियुक्तेऽहं पुटपाकदशां गता ।
सखी दिवं गते कान्ते कथा जीवति निष्टुरा ॥ ७९ ॥

न शक्त। विषयादलं निवारयितुमुद्धतम् ।
संच्छिन्नरश्मिरथात्सादीच जविनं हयम् ॥ ८० ॥

प्रियाय प्रेषितं चिते न निवर्तयितुं क्षमा।
लक्ष्याय प्रहितं मध्ये धनुष्मानित्र सायकम् ॥ ८१ ।।

स्मरार्ता जालमागेण पश्यन्ती मणिमण्डपम् ।
अतिष्ठदातपक्लान्ता मयूरीव नवाम्बुदम् ॥ ८२ ॥