पृष्ठम्:कादम्बरीकथासारः.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
श्री त्रिविक्रमविरचितः


तं स्रस्तकेयूरमुपेत्य तूर्णं
केयूरकश्चित्ररथात्मजायाः ।
निसर्गसिद्धप्रणयप्रवृद्धे
सन्तापमस्मै कथयांबभूव ।। ११ ।।

अथ प्रयाते सति देव! देवी
समुत्सुका तुङ्गमुपेत्य हर्यम् ।
अनुद्रुता सा मनसा भवन्त
मतिष्ठदालोक्य तमेव मार्गम् ॥ १२ ॥

क्रीडाद्रिमासाध ततः सखीभि-
1स्तं तं प्रदेशं भवता स्थेित सा ।
सोत्कण्ठमुद्वीक्ष्य च तत्र तत्र
बाला चिरेणाश्रुमुखी स्थिताऽभूत् ।। १३ ।।

हम्याच कल्पद्रुमवाटिकां सा।
हर्यं च कल्पद्रुमवाटिकायाः ।
तल्पाच वापीमपि वापिकाया
सतल्पं प्रयान्ती दिवसान्यनैषीत् । । १४ ।।

तस्मात्स तस्याः परितापवेगं
निशम्य सन्तप्तमना निकामम् ।
प्रियां दिदृक्षुः प्रियदर्शनस्तां
सपत्रलेखः सहसा जगाम ।। १५ ॥

हैमे गृहे तापवशात्कृशाङ्गी
मास्तीर्णरम्भास्तरणे निषण्णाम् ।


1. स्तन्त्रे प्रदेशमिति मातृका ।