vi
अमुमेव बाणाभिहितमभिनन्दः ‘पृष्ट्वा सुखादिकम् ’इत्येतावता निरदिक्षत् । त्रिविक्रमस्तु :--
"वैशम्पायनमुद्दिश्य राजा वचनमब्रवीत् ।
अभ्यन्तरेप्वभिमतं कश्चिदास्वादितं त्वया ।"
- त्रिवि. का. क. सा. I. ५९-६०,
इत्याह । अत्रापि त्रिविक्रमो यथापूर्वं बाणप्रयुक्तमेव पदजातमुपादाय श्रवणपेयं छंन्दसा निबबन्धेति पाठकसहृदयैः स्पष्टमवगम्यते । न चैतावन्मात्रम् । विहङ्गमप्रत्युत्तरसन्दमैऽपि ः
"स प्रत्युवाच 'देव! किं वा नास्वादितम् ; आमत्तकोकिललोचनच्छ
विर्नीलपाटल कषायमधुरः प्रकाममापीतो जम्बूफलरस; हरि
नखरभिन्नमतमातङ्गकुम्भमुक्तरक्तार्द्धमुक्ताफलत्विषि खण्डितानि दाडि मबीजानि ; नलिनीदल्हरिन्ति द्राक्षाफलम्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि ; किं वा प्रलपितेन बहुना ? सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते " इति ।
- का. पृ. ३६.
अत्र त्रिविक्रम :--
“ एवं वदन्तं नृपतिं प्रत्युवाच विहङ्गमः ॥
किं वा नास्वादितं देव! नितरां नीलपाटलः ।
कषायमधुरः पीतो जम्बूफलरसो मया ॥
मृगेन्द्रभिन्नमाताङ्गकुम्भमुक्तासमानि च ।
पक्कदाडिमबीजानि खण्डितानि मया विभो!
तुल्यानि नलिनीपतैः खदंशि स्वेच्छया भया।
दलितानि महीपाल! प्राचीनामलकानि च ।