पृष्ठम्:कादम्बरीकथासारः.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
कादम्बरीकथासारः


रोमन्थसंमीलितलोचनस्य
शूले निषण्णस्य रुरोः स्मरार्ताम् ।
कडूयमानां निजवामनेत्रं
मृगीमपश्यनरकपालः ॥ २७ ॥

महीपतिर्यस्तमणिप्रदीपा
न्यास्तीर्णकल्पद्रुमपल्लवानि ।
1अयन्तरम्याणि सुराङ्गनानां
2गृहाणि पश्यन्मुमुदे स वीरः ॥ २८ ॥

विचित्रमन्दारगृहेषु तेषु
झझरिरोलम्पसमावृतेषु ।
प्रयुज्य नृत्ताभिनयं भवानीं
सम्प्रीणयन्तीममी ददर्श ॥ २९ ॥

निषेदुषीभिः सह केलितल्पे
कान्तैः स कैलासदरीगृहेषु ।
शुश्राव शंभोस्त्रिपुरापदान-
मुद्रीयमानं सुरसुन्दरीभिः ॥ ३० ॥

नरेन्द्रसूनुर्नलिनायताक्षो
ल्यानुविद्धान् रसभावपूर्णान् ।
व्यलोक्यचारणमुन्दरीणां
3विनोदलास्ये विविधान्मयोगान् ॥ ३१ ॥

ननन्द 4पश्यन्स्खलदक्षराणि
विघूर्णमानारुणलोचनानि ।


1. ददर्श इति मातृश्च। 2. मुखानि इति मातृका। 3. विवादालस्ये इति
मातृआ। 4. ननन्द वश्यमति मातृका। ।।