पृष्ठम्:कादम्बरीकथासारः.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
कादम्बरीकथासारः


स विभ्रमान्विभ्रमभूषणानां
प्रियकरानप्यमराङ्गनानाम् ।
सेहे न 1सन्तापकरं नितान्तं
पश्यन्नपि प्राणसमावियोगम् ॥ ३८ ॥

सुगन्धिपुष्पाणि सुशीतलानि
सुराङ्गनाभुक्तलतगृहाणि ।
व्यलङ्यच्चारणगीतकीर्तिः
कान्तानि कल्पद्रुमकाननानि ॥ ३९ ॥

आधूय सन्तानलताप्रसूनं
स्पृष्ट्वा मुहुः स्वस्तटिनीपयांसि ।
तं क्लान्तवाहं मृगनाभिगन्धी
समीरणः अन्तिहरः शिषे ॥ ४० ॥

व्यलोकयत्सैकतलीनहंसां
गां स मृत्युञ्जयमैौलिभूषाम् ।
शरीरिणां यत्पयसि प्रसन्ने
निमज्जतां जन्मभयं न भूयः ॥ ४१ ॥

अन्तर्हितां पद्मवनेन हंसीं
क्रन्दन्तमन्त्रिप्य विलोक्य हंसम् ।
सञ्चिन्त्य तामेव नरेन्द्रसूनुः
सन्तापवेगस्तिमितो बभूव ॥ ४२ ॥

प्रसन्नागजलपावनानि
फलाव्यमन्दारमहीरुहाणि ।


1. सन्तापहरमितं मातृका ।