पृष्ठम्:कादम्बरीकथासारः.pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

vii

देव! किं बहुना देव्यो भोज्यैः पञ्चविधैश्च माम् ।
सादरैरुपचारैश्च सुचिरं पर्यतोषयन् ॥

त्रिविक्र. 1. ६०-६४.

 अत्रापि त्रिविक्रमस्य मूलकथाया यथावदनुवदनचातुर्यं दरीदृश्यते । यद्यपि "गद्यं कवीनां निकषं वदन्ति" इत्यभियुक्तोक्तिः । अत्र च परां काष्ठामधिवसति भट्टबाणः। यस्य कस्यापि तदीययशस्सदृक्षयशोऽधिगमसम्भावनं साहसमात्रम् । अथापि कादम्बरीकथासाररचनासन्दर्भे त्रिविक्रमाभिहितमधोनिर्दिष्टं पद्यं स्मृतिपथमुपारूढं भवति । ।

" काव्यं गद्यमयं हृद्यं; पद्यबन्धेन निर्मितम् ।
क्षीरमातञ्चनेनेव यास्यत्येव रसान्तरम्" इति ।

 अत्र त्रिविक्रमो बाणस्य गद्यमयं कादम्बरीकाव्यं क्षीरेण स्वस्य कादम्बरी कथासाराख्यं पद्यबन्धेन निर्मितं काव्यं दन्धा च तुलयति । दधिक्षीरयोश्च कतरदास्वाद्यगुणभूयिष्टमित्यास्वादचतुरा विदाहङ्कर्वन्तु । क्षीरमातञ्चनेन दधिभाव मापन्नं रसान्तरमुत्पादयत्येव इति व्यवच्छेदयत्यपि त्रिविक्रमः । तदेतत्सर्वं "आदौ पृष्टा मुखादिकम् " इत्येतावतैव संगृह्नन्नभिनन्दः अथवा कृतपरिचयः त्रिविक्रमोऽत्राभिनन्द्य इति सुधियो विजानते ।

 "वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमयनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् 'देव! महतीयं कथा; यदि कौतुकमाकर्ण्यताम् ---  अस्ति......तमालकिसलयामोदिनी........अतिकठोरनारिके- लकेतकीकरीर......बकुलपरिगतप्रान्तै............विराजिता............................कात्यायनी प्रचलितखइगभीषणा......कचित्प्रलयवेलेव महा-