पृष्ठम्:कादम्बरीकथासारः.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
कादम्बरीकथासारः

द्वादशः सर्गः


ततः कुमारस्य कुमारकी:
सपत्रलेखः विल मेघनादः ।
प्रियाविसृष्टः कुलराजधानी
मुपेयिवान्कुन्तलवंशकेतोः ।। १ ॥

ख्याता जगत्युजयिनीति नाम्ना
सिप्रातरङ्गाहततुक़साला ।
यच्चन्द्रशालामु रवेस्तुरन्ना
विश्रम्य विश्रम्य पुनःप्रयान्ति ॥ २ ॥

तस्यां समुतुङ्गविशालसालं
ध्वजाग्रसंघुष्टनवाम्बुद ते ।
महीजितां कुन्तलवंशजाना-
मपश्यतामम्बरलेहि धाम ॥ ३ ॥

तदिङ्गितशैरपि सौविदलैः
प्रवेशितौ भूमिपतेरगारम् ।
विसारिणा तस्य महोमहिना
क्षणं निरुद्धाविव तावभूताम् ।। ४ ।।

प्रवृद्धतापः परिधूसराङ्गः
श्वसोष्मणा मर्मरिताधरोष्ठः ।
निजसा निहतरत्रभासा
क्षीणोऽपि नाल्क्ष्यत्व राजसिंहः ॥ ५ ॥