पृष्ठम्:कादम्बरीकथासारः.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

x

पूर्वोक्तमर्थमभिनन्द एवं वर्णयामास :--

"तस्योपकण्ठे पम्पाख्यमस्ति पुण्यजलं सरः ।
सीताकरतलोल्लुनश्रवणाभरणोत्पलम् ।"

अभि. का. क. सा. I. ५८.

त्रिविक्रमस्तु:--

 “ तस्याश्रमस्य निकटे हंससारससक्कुलम् ।
कादम्बकुलचञ्चग्रदष्टकिञ्जल्कपिञ्जरम् ॥
उद्भित्रपद्मविगलन्मधुचन्द्रकितोदकम् ।
पम्पानामातिगम्भीरमस्ति पद्मसरोवरम् ।।

त्रिवि. का. क. सा. II. ११-१२.

 अत्र मूलकादम्बरीरसास्वादनकाले इव त्रिविकमकथासारास्वादनवेलायामपि सहृदयाः तुल्यानन्दनिर्भरा भवेयुरिति कथनं न साहसमात्रम् । त्त्रिविकमः सत्यं बाण इव पम्पासरोवरं सहृदयपाठकनयनगोचरतामापादयति । किं च शाल्मली- वृक्षवर्णनावसरेऽपि त्त्रिविक्रमः अनितरसाधारणमितराशयानुवदनप्राभावं प्रकटयति । तत् यथा:

 "सरसः पश्चिमे तीरे..... दिकुचक्रवालपरिमाणमिव गृह्यता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुज- सहस्रमुडुपतिशेखरमिव विडम्बयितुमुद्यतः ..... निखिलशरीर व्यापिनीभिरतिदृरोन्नताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः ...... इतस्ततः परिपीतसागरसलिलैंर्गगनागतैः पत्ररथैरिव शा खान्तरेषु निलीयमानैः क्षणमम्बुभरालसैरार्द्रीकृतपल्लवैर्जलधरपटलैप्य दृष्टशिखरः..... शाखाबाहुभिरुपगुझेव विन्ध्याटवीं स्थितो महान् । जीर्णः शाल्मली " इति ; का. पृ. ४७-४८.