पृष्ठम्:कादम्बरीकथासारः.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

xii

 “ सहकारभञ्जिका, अभ्यूषखादिका, बिसखादिका,नवपत्रिका . उदकक्ष्वेडिका, पखालानुयानं, एकशाल्मली, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः । इति सम्भूयकीडाः "

इत्याह । तत्र यशोधरविवरणम् :--

 "घटानिबन्धनमिति देवानामुद्दिश्य यात्रा घटा। नागरकानां तत्र संहत्यमानत्वात् " इति ।

 " एकमेव महान्तं कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य तत्रत्य कुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् " इति ।

 अत्र अस्मत्प्राचीनभिहितनागरकनैमित्तिकवृत्तन्तर्गतयु क्रीडासु एक- शाल्मल्यमिधा क्रीडा दृश्यते । तेन च शाल्मलिवृक्षेण महता कुसुमनिभरेण च भव्यमित्यपि ज्ञायते । काव्येषु वर्णितानां कुसुमावचयजलविहारदलालिपान गोष्ठीप्रभृतीनां परिशीलनेन इदमवगन्तुं शक्यते यदस्मत्प्राचीनकविपुङ्गवा अस्यैव नागरकवृत्तस्य नितरां स्मरतीति । नूनं बाणोऽपि इदमेव मनसि निधाय अतिमहान्तं शाल्मलिवृक्षं सहृदयहृदयावर्जकं वर्णयामासेति विश्वसिमि ।   न केवलमेतावदेव :--

 " तत्र च शाखाग्रेषु कोटेरोदरेषु पल्लवान्तरेषु स्कन्धसन्धिषु जीर्णक्ल्कविवरेषु ......... शुकशाकुनिकुलानि प्रतिवसन्तिस्म ; यैः परिणामविरलदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः ” इति ; का. पृ. ४८-४९.

अत्र अभिनन्द :--

"तस्मिन् कृतकृलायानि वीतभीतीनि दुर्गमे ।
विहङ्गमसहस्राणि निवसन्ति निरन्तरम् ।

अभि. का. क. सा. १-६०.