पृष्ठम्:कादम्बरीकथासारः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xiii

अत्रैव त्रिविक्रमः  :--

"तस्य क्रोडेषु शाखासु जीर्णक्ल्कपुटेषु च ।
स्कन्धसन्धिषु शौकानि निवसन्ति निरन्तरम् ।
परिणामगलत्पत्रराशिस्स च वनस्पतिः ।
दिवानिशं निलीनैयैस्सपन्न इव ल्क्ष्यते ॥

त्रिवि. का. क. सा. II. १७१८.

 त्रिविक्रमस्यैतत्पद्ययुगलं यथा मूलकथामतिमात्रं स्मारयति न तथा अभिनन्दस्य पद्यम् ।

 तदेतावता कादम्बरीकथासारप्रणेता त्रिविक्रमः प्राकृतव्याकरण प्रणेत्रा ॐ स्वपराशयसंवादिकथास्वेकः त्रिविक्रमः" इत्यभिहितभाग- धेयसम्पन्न इत्यलं प्रदर्शयितुमिति मन्ये ।

 इदमत्र वक्तव्यमवशिष्यते यदद्य न केवलं भारतीया अपितु सर्वेऽपि मानवाम्संस्कृतवाङ्मयरसपिपासवस्समुपलक्ष्यन्ते इति । अथापि बहवः केवल मांग लभाषामुखेनैव तद्रसास्वादनकुशलाः । तत्तेषां सौकर्यायेदं काव्यमांगल भाषायामस्माभिरनूदितमेवाधिकारिभ्योऽदायि । तदपि कालान्तरे पाठककरक- मलमलङ्कर्यादित्याशास्महे ।

 अमुद्रितग्रन्थानां परिरक्षणाय लेखकसाहाय्येन पुनः पुनः लिखितेषु ग्रन्येषु तेषां लेखकनां प्रमादादालस्याद्वा केचन अपभ्रंशाः कालक्रमेण ग्रन्थ शरीरमलयोरिति निर्विवादोऽयमंशः । तत्र च " कपिः " • पिकः " इत्या दीनि पदानि वर्णयोः केवलं व्यत्यासेन शोतृबुद्धौ कियत् बोधवैपरीत्यमुद्वोधयन्ति इति विदितमेवेदं विदुषाम् । तद्यथात्र काव्ये चन्द्रापीडस्य विद्याभ्याससन्दर्भ पद्यमिदमुफ़्लभ्यते:---