पृष्ठम्:कादम्बरीकथासारः.pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

xv

पुरोधा इत्यभिघीयते । अस्य वीरभल्लालस्य काले शिलासूल्लिखितानां बहूनां शासना- नामेष कर्ता । अस्य पुत्त्रो वैद्यनाथः द्वितीयवीरनरसिंहस्य (l220-1235 A.D.) आस्थानमलश्चकार । वैद्यनाथपुत्रो द्वितीयः विद्यचक्रवर्ती । अयमेव गद्यकर्णा- मृतकर्ता । अयमात्मानं सकलविद्यचक्रवर्तिनं कविराजराजअभिनवभट्टबाणं, कलिकालकालिदासं काहरुकविसार्वभौमं कालकविकलभं चास्मानमाह । अस्य पुत्त्रो वासुदेवः श्रीवल्लभ इति प्रख्यातः । अस्य वासुदेवस्य पुत्रस्तृतीयो विद्या चक्रवर्ती। तत्र तत्र होयशलराजप्रशस्तिद्योतकोदाहरणैरयम् कव्यप्रकाशमलकार- सर्वस्वं च व्याचख्यौ। तृतीयो वीरभल्लालः (1291-1342 A.D.) अमुमादृतवान् । अयं षोडशसर्गात्मकं रुक्मिणीकल्याणं रचयामास । तत्र प्रथमसर्गे' होयशल- राजवंशप्रशस्तिरस्ति । कविवंशचरितममत्त्यल्पमुपलभ्यते ।

 तदेतत्सर्वं पर्यालोचयद्भिरस्माभिरिदं निश्चेतुं शक्यते यत् कादम्बरीकथा सारप्रणेता उपरिनिर्दिष्टविद्यचक्रवर्तिषु त्रिष्वन्यतमम्य शिष्यो भवेदिति ; तत्रापि द्वितीयतृतीययोरन्यतरस्य च इति । द्वितीयो विद्याचक्रवर्ती अनेकविरदालतः ;तत्रापि च अभिनवभट्टबाणविरुदालङ्कृतः । तस्य चेदयं त्रिविक्रमः शिष्यः स्यात् माकीमयं त्रिविक्रमः प्राकृतव्याकरणकर्तुस्समकालीनो भवेत् । अथापि स प्राकृत- व्याकरणकर्ता जैनः इति प्रसिद्धिः । अयं तु कादम्बरीकथासारप्रणेता वैदिकः । तदनयोरैक्यमपादनमर्हति न वेति सहृदयाः कृतबुद्धयो विद्वांसो विदार्वन्तु ।

 एतद् ग्रन्थशोधनसन्दर्भे युक्तकालं मां तदा तदा प्रतिबोधयतां श्री डि. टि. ताताचार्याणां कृतज्ञतामावेदयामि । एतन्मुद्रणप्रतिसमीकरणे आर्. पद्मनाभो व्याकरणचतुर्थवत्सरविधार्थी मह्यम् साहाय्यमाचरितवान् । ग्रन्थान्ते विद्यमानश्लोकानुक्रमणिकासमीकरणे श्रीमत्या वै. वरलक्ष्म्या, अस्म- त्परिशोधनालयपत्रिकायाः सहयसम्पादयित्व्या, च साहाय्यमाचरितम् । एतद् ग्रन्थप्रचुरणेन मां प्रोत्साहयन्तो देवस्थानाधिकारिणः, अचिरादेव ग्रन्थमतिरम- णीयं मुद्राफ्यन्तो मुद्रणालयाधिकारिणश्च श्लाघाशिरःकम्पमभिनन्दनीयाः ।।