पृष्ठम्:कादम्बरीकथासारः.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

॥ श्री त्रिविक्रमविरचितः॥

॥कादम्बरीकथासारः॥

अप्रबुद्धमपि सर्वतोमुखं
मां प्रबोधितवते परात्मकम् ।
अकमस्फुरितसर्वशक्तये
चक्रवर्तिगुरवे नमो नमः ॥ १ ॥

उपशमयिता चिन्ताग्रन्थेर्निबर्हयितांहसः
परिणमयिता कल्याणस्य प्रकारयिता श्रियः ।
प्रतिजनयिता दुःखोच्छितेः प्रकारयितात्मनो
मनसि भविता नित्यं श्रीचक्रवर्तिकवीश्वरः॥ २ ॥

व्याकोचकोकनदकोमलकान्तिचोरं
संसारसागरविलङ्घनयानपात्रम् ।
कामप्रदं कलितनूपुरमिन्दुमौलेः
पादद्वयं भगवतो मयि सन्निधताम् ॥ ३ ॥

यस्याः पञ्चगुणा श्चतुर्गुणवती याया त्रिभिस्तैर्युता
या द्वाभ्यां मिलिता त्रिभिर्विरहिता हीना चतुर्भिश्च या ।
या वृद्धिं लभते त्रिविक्रमदशां या कर्मणां साक्षिणी
या होत्री विधिवत्पुरत्रयभिदः ताः पान्तु वो मूर्तयः ॥ ४ ॥


४. अष्टमूर्ते शिवस्य ता मूर्तयो वः पान्तु इल्यवन्वथः । यस्या मूर्तेः पृथिवीरुपायाः पश्वगुणाः शब्दस्पर्शरूपरसगन्धात्मक पृथिव्यां पञ्चानामपि गुणानां सत्वात् । या चतुर्गुणवती जलमयी मूर्तिरित्यर्थः । जले गन्धाभावादिति भावः । या त्रिभिः तैर्गुणै: शब्दस्पर्श