पृष्ठम्:कादम्बरीकथासारः.pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

कादम्बरीकथासारः

एनमादाय नः स्वामिदुहिता मञ्जुवादिनम् ।
रत्नानां भाजनं देव इति मत्वा विचक्षणम् ॥ ३१ ॥

उपागता देवपादं तस्मात्स्वीक्रियतामयम् ।
इत्युक्त्वा पञ्जरं तत्र विन्यस्याथससार सः ॥ ३२ ॥

स राजाभिमुखो भूत्वा जयशब्दपुरस्सरम् ।।
उद्यम्य दक्षिणं पादमिमामार्यामुदैरयत् ॥ ३३ ॥

स्तनयुगमधुखातं समीपतवर्तिहृदयशकश्मेः ।
चरति विमुक्तहारं व्रतमिव भवतो रिपुत्रीणाम् ॥ ३४ ॥

तां श्रवा विस्मयो पेतः पार्श्वे हेमासने स्थितम् ।
कुमारपालितं प्राह महमात्यं महीपतिः ॥ ३५ ॥

विभकिक्तिमात्रानुस्त्ररस्फुटगीर्यदुदीर्यते ।
इदमेव महचवमित्युक्तवति भूभुजि ।। ३६ ।।

स्मित्वा किंचिन्नृपममत्रदीद्विस्मयाकुलम् ।
किमत्र चित्रं देवामि सलप्न्ति यथाश्रुयम् ॥ ३७ ॥

अस्फुट लापता जता शुकानामभिशापतः ।
गजनामपि जिहूयाः परिवृतिरिवगता ॥ ३८ ॥

ततस्तस्मिन् वदत्येवं बधिरीकृतदिङ्मुखम् ।
उदतिष्ठद्दिवो मध्यं गतेऽने शनिःस्वनः ॥ ३६ ॥

तमाकर्ण्य क्षितिपतिरिमां मतङ्गकन्यकाम् ।
विश्रम्यतामिति गृणन् जद्दवास्थानमण्डपम् ॥ ४० ॥

स्नानभोजनवेलैयमिति मम महीपतिः ।
निखिलानपि भूपालान् विश्रमाय व्यसर्जयत् ॥ ४१ ॥