पृष्ठम्:कादम्बरीकथासारः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

कांचिदादिश्य शुद्धान्तं प्रापयेति विहङ्गमम् ।
विवेशाभ्यन्तरं कैश्चिद्राजपुतैर्महीपतिः ॥ ४२ ॥

विश्रमाय क्षितिपतिः परित्यक्तविभूषणः ।
तदा गलमभाजालः त्वषांपतिरिवाबभौ ॥ ४३ ॥

शस्त्राभ्यासेषु निपुणैःसवयोभिः समन्वितः ।
व्यायामाय कृतोद्योगः खुरल प्रववेश सः ॥ ५४ ॥

निबध्य कक्ष्यया गाढ चण्डातकमनुत्तमम् ।
यथा कथबल तत्र व्यायाममकरन्नृपः ॥ ४५ ॥

निटले मञ्जुले सक स्वेदवारि महीपतेः।
शुक्तिसम्पुटसंल्यं मुक्तापुङ्गमिवावनौ ॥ ४६ ॥

स्विन्नं श्रमवशात्तस्य सौम्यमाननपङ्कजम् ।
यनिधेरिव बनैौ सुधानिष्यन्दमण्डलम् ॥ ५७ ॥

अथ स्नानाय सस्त्रीको दीर्घकां पाप भूपतिः।
अप्सरोभिः परिवृो गक्कमिव पुरन्दरः ॥ ४८ ॥

स्नानेन पृथिवीपालः नितरां दीप्तविग्रहः ।
मणिराकरसम्भूतः शाणोल्लीढ इवाबनौ ॥ १९ ॥

ततः स्नात्वा यथाकामं शरदश्नातिपाण्डरम् ।
हंसद्वन्। इस क्षौमें पर्यधत्त महीपतिः ॥ ५० ॥

नीलोत्पलदश्यामः स्वर्णाभरणभूषितः ।
विरराज महीपालः सविद्युदिव तोयदः ॥ ५१ ॥


४४. सुरली ब्यायामभूमिः ।

४५, चण्डातकं अर्धोरुक्तम् “अधरूकं वरस्त्रीणीं स्याण्डातमश्विथा" मियत्यमरः