पृष्ठम्:कादम्बरीकथासारः.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ कदम्बरीकथासारः॥

प्रविश्य देवतागारं विधिवद्वृषकेतनम्
चराचरगुरुं भक्त्या पूजयामास भूपतिः ॥ ५२ ॥

निर्वत्र्य भोजनविधिं निरुपद्रवशासनः।
कैश्र्चिद्राजपुतैः साधे स प्रापास्थानमण्डपम् ॥ ५३ ॥

अध्यास्त तल्पं भूपालो नितर तरच्छदम्।
भुजनभोगपर्यङ पुमानिव पुरातनः ॥ ५४ ॥

वैशम्पायननामानमादाय विहगोत्तमम् ।
आगच्छेति प्रतीहारीमादिदेश विशां पतिः ॥ ५५ ॥

सा तथेति प्रतीहारी प्रणिपत्य महीपतिम् ।
प्रविश्यान्तःपुरं सद्यः तमादायाययौ पुनः ॥ ५६ ॥

तस्यां गतायां विहगं विन्यस्य नृपतेः पुरः ।
ततो बद्धाञ्जलिः कश्र्चित्कल्चुकी नृपमचवीत् ॥ ५७ ॥

देव ! विज्ञापयन्ति त्वां देव्योऽयं विहगोत्तमः ।
स्त्रानपूर्वं कृताहारः प्रेषितश्च त्वदाज्ञया ॥ ५८ ॥

इत्युक्त्वा निर्गते तस्मिन् तद्वार्ताश्रवणादरात् ।
वैशम्पायनमुद्दिश्य राजा वचनमब्रवीत् ॥ ५९ ॥

अभ्यन्तरेष्वभिमतं कच्चिदास्वादितं त्वया ।
एवं वदन्सं नृपतिं प्रत्युवाच विहङ्गमः ॥ ६० ॥

किं वा नास्वादितं देव! नितरां नीलपाटलः ।
कषायमधुरः पीतो जम्बूफलरसो मया ।। ६१ ॥