पृष्ठम्:कादम्बरीकथासारः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरीकथासारः

तस्य क्रोडेषु शाखासु जीर्णबल्कमुटेषु च ।
स्कन्धसन्धिषु शौचनि निवसन्त निरन्तरम् ॥ १७ ॥

परिणामगलपत्रराशिः स च वनस्पतिः।
दिवानिशं निलीनैः यैः सपत्र इव स्रक्ष्यते ॥ १८॥

तसिन् वनस्पतीौ रात्रिमतिवाशातिवाद च।
उत्थायोत्थाय च प्रातः चरन्ति स्वेच्छया शुकाः ॥ १९ ॥

स्वशाबिथोहृताहाराः साय प्राप्य वनस्पतिम् ।
स्वेषु स्वेषु कुत्रयेषु क्षपयन्त क्षपाममी ॥ २० ॥

शाल्मलीशाखिनतस्य कसिंचिज्जीर्णकेटेरे।
जायथा सह तातो मे चिरकालमवर्तत ॥ २१ ॥

अथाहं वर्तमानस्य पितुर्वयसि पश्चिमे ।
एक एवाभवं पुत्रः प्राक्तनैः पापकर्मभिः ॥ २२ ॥

प्रसवोद्धवया माता भृशे वेदनया तया ।
जाते च मामनालोक्य लोकान्तरमवाप सा॥ २३ ॥

ततः प्रियतमानाशदुःखितोऽपि निरन्तरम् ।
केवलं रक्षणार्थं मे प्राणेष्वास्थां बन्धसः ॥ २१ ॥

जराशिथिलसर्वानः स्पन्दितुं च पदात्पदम् ।
अशको जनकनेहान्मद्र्धनपरोऽभवत् ॥ २५ ॥

परनीडानिपतितं फलशर्कं च तण्डुलम् ।
आदायादाय सदय सदा महमद पता ॥ २६ ॥


1. सप्तकः इति मातृश्च।


२६. फळशकं फूलशकलमियर्थः ।