पृष्ठम्:कादम्बरीकथासारः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरीकथासारः

इतः कपिञ्जलरुतमितः कृकरकूजितम् ।
इतो हरिनखोद्भिन्नकुम्भकुरङ्गुहितम् ॥ ३८ ॥

आकण्येतामय शब्दः सशरं गृशतां धनुः।
आरुह्यतामिंय शाखा हरिदालोक्यतामियम् ॥ ३९ ॥

अन्योन्यमेवं वदतो मृगयासक्तचेतसः।
अश्रौषं जनसङ्घस्य कोलाहलमुदञ्चितम् ॥ ४० ॥

ततो मन्दरमन्थानमथिताम्भोधिदुःसहैः।
क्रूरैः केसरिणां नादैः दरीमुखविसर्पिभिः ॥ ५१ ॥

शरताडनसंत्रस्तमत्तमातङ्गचूंहितैः।
कुण्डलीकृतकोदण्डशिनीशिञ्जितैरपि ॥ ४२ ॥

स्वयूथभ्रष्टवित्रतहरिणीकरुणरवैः ।
भिलभलविनिर्भिन्नभल्लूकुनिनदैरपि ।। ४३ ॥

धावतां सारमेयाणां घर्घरैर्भवितैरपि ।
सर्वत्र तन्महारण्यं प्रकम्पितमिवाभवत् ॥ ४४ ॥

शान्तकोलाहले तस्मिन् सौमियं कानने गते ।
निधृष्टमूकीमूतनिकुरुम्बानुकारिणि ॥ ४५ ॥

निष्कम्य पितुरुत्सन्नदीषत्सभयकौतुकम् ।
दिक्षुरहमाशान्सां चक्षुः प्राहिणवं शनैः ॥ ४६ ॥

ततः तस्मान्महारण्यादनेक्सुखमापतत् ।
दुःसहं दानवकुलं नागलोकादिवोत्थितम् ।। ४७ ॥

यमकिंकरसङ्काशं वेतालनिकरोपमम् ।
अद्राक्ष शाबरं वृन्द पापकमेव मूर्तिमत् ॥ ४८ ॥

३८. को बर्धविशेषः ।