पृष्ठम्:कादम्बरीकथासारः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

यावदत्युन्नतात्तस्मात्तरोरवतरल्यसौ ।
प्राणमीरयेतरत् स्थानं तावजिगमिषुर्दूतम् । ६८ ॥

अन्तकास्यादिवात्मानं मन्यमानो विनिर्गतम् ।
पदात्पदमशक्तोऽहं गन्तुं तत इवोल्टन् ॥ ६९

अप्रविष्टार्कविरणः तातस्यानमिवापरम् ।
तमालशाखिना मूलमयामभ्यणवातनः ।। ७० ।।

शाखान्तरस्थितानन्यान्निगृश्च शुकशाबकान् ।
तत्क्षणादुन्नतात्तस्मात्तरोरवततार सः ॥ ७१ ॥

मृतान् पत्रपुटे सोऽयं निक्षिप्य शुकशाबकान् ।
कयाचिल्लनया गाढं अबलादन्तिकस्थया ॥ ७२ ॥

असे निधाय च शराशनमाततज्य
मादाय तच्छकशिशूनखिलान् भुजेन ।

मार्गेण तेन शबरेन्द्रगतेन सोऽपि
प्रातिष्ठत द्रुततरं प्रवयाः पुलिन्दः ॥ ७३ ॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृौ कादम्बरी कथासारसहास्ये काव्ये द्वितीयः

सर्गः समाप्तः ।