कादम्बरीकथासारः
तृतीयः सर्गः
अथ मृत्युनिभे तस्मिन् प्रस्थितेऽपि वनेचरे ।
निवृत्तः स्यादिति भयातर्मेधाशथिवि क्षणम् ॥ १ ॥
अन्यायासितसर्षोंने पतनादतिदूरतः ।
शोकेनेच्छुष्कहृदयं पितृनाशभयेन च ।। २ ।।
उदन्य भयसन्नाता समस्ताङ्गपतापिनी ।
एवं विधेऽपि काले मामनैषीत्परतःत्रकम् ।। ३ ।।
तमालमूलान्निर्गत्य तस्मादुदक्रमाच्छया ।
उपसॐ सरस्तीरमहमैच्छं शनैः शनैः ॥ ४ ॥
मुहुर्मुखेन 'पततो मुहुर्विट्ठलो भुवि ।
श्रमातुरस्य मे कामं मतिरेवं विधाभवत् ॥ ५ ॥
अस्मिन् जगति जन्तूनां प्राणेभ्योऽन्यमकिंचन ।
एवं तातेऽप्युपरते भूयोऽहं प्राणिमीति यत् ॥ ६ ॥
नैवात्मनो मदर्थे यो मृत्युकालेऽपि शोचति ।
मया तेनैव न मृतभीदृशी मे कृतज्ञता ।। ७ ॥ ।
तेररुपायैः शोच्येन मृतायामपि मातरि ।
पित्रा यदर्थितं यत्तत्सर्वं विस्मृतं क्षणात् । ८ ।
कृपणाः खल्वमी प्राणा ममैवमुपकारिणम् ।
अत्र कुत्रापि गच्छ पितरं नानुयान्ति यत् ॥ ९ ॥
!. मुखेन पीने इति मतृषु 2. प्रपिमीति इति मातृश्च।