पृष्ठम्:कादम्बरीकथासारः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

२४

पश्चिमां हरितं प्राप्य हरिदधोऽनुरक्तवान् ।
इतीवमत्सरात्सद्यो' दिनश्रीर्विलयं ययौ ॥ ४९ ॥
अर्यम्ण मने
पाथोधावन्धकारो व्यजुभत ।
झरे पतिते तोये धूमरारिरिवोत्थितः ॥ ५० ॥

भास्वत्पतनवेगोत्थाः शीकरा इव वारिधेः ।
निलीना निर्मल्लकाराः पुस्फुरुस्तारका दिवि ॥ ५१ ॥

अथे दिते निशानाथे कृताहारो मया सह ।
हारीतो मुनिभिश्चान्यैः पितुरभ्यासमभ्यगात् ॥ ५२ ॥

तत्र वेत्रासनासीनं पितरं प्रणिपत्य च ।
आसन्नवर्तिनीं कांचिदध्युवास वृसीमसें ॥ ५३ ॥

ततः क्षणमिव स्थित्वा चेदि तेऽन्यैर्महर्षिभिः ।
हारीतस्तं सविनयं जावालिमिदमब्रवीत् ॥ ५४ ॥

तातेयं तापसस जेतुमुत्कण्ठते कथाम् ।
इत्युक्तस्तेन जावालेर्वक्त्रं प्रक्रमते स्म ताम् ।। ५५ ॥

यद्यस्ति वाञ्च्छा व. शेतुमादितः श्रूयतामति ।
कथां मदीयां जावालिर्वक्तुं प्राक्रमत क्रमात् ॥ ५६ ॥

अस्त्यवन्तषु विख्यातविभवोजयिनी पुरी ।
अवतीर्णा दिवो दिव्या नगरीव महीतलम् ॥ ५७ ॥

कैलासवासमुज्झित्वा यतीनामिव मानसे ।
महाकालाद्यो यत्र स्वयं निवसतीश्वरः ॥ ५८ ॥


1. सद्यः ... .... .... .... .... ॥ इति मात्रका। 2. आलि .. तेस्म ताम् । इति मात्रका।