पृष्ठम्:कादम्बरीकथासारः.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥कादम्बरीकथासारः

२७

द्विषां पुरीतलतयोपवीती
रक्ताज्यधारा विहितानुलेपः' ।
प्राणान् प्रतापज्वलने जुझाव
रणाध्वरे यस्य कृपाणयज् ॥ ७५ ॥

यस्य प्रतापाग्निर्दग्न कीर्ते
स्समेधमानस्समराङ्गणेषु ।
वरोत्सुकानाममराङ्गनानां
प्राग्रेण कामानलतां प्रपेदे ॥ ७६ ॥

यस्य प्रतापज्वलनेन कामं
पराजितो बाडबजातवेदाः ।
अद्यापि पाथेनिधिमभ्यवर्ती
नूनं तपः सञ्चरतीति मन्ये ॥ ७७ ॥

सुधांशुना स्वस्तटिनीजलेन
प्रायः शिवायाः परिरम्भणेन ।
यस्य प्रतपानतप्तात्रः
शिवोऽपि चक्रे शिशिरोपचारम् ॥ ७८॥

विद्युलोवाधिकचञ्चलपि
प्रतापतपादिव तप्तदेहा ।
हरिप्रतापस्य सितातपत्रच्छयां
जते यस्य न राजलक्ष्मीः ॥ ७९ ॥

मताभसप्तर्चिषि यस्य राज्ञो
जगत्यस्यापि विवर्धमाने ।

1. लेपा इति मातृ । 2. उदप्रकीर्तिः इति मतं ।