पृष्ठम्:कादम्बरीकथासारः.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥कादम्बरीकथासारः

हृष्टरागराणि गताञ्जनाक्षा
प्युपातनिःश्वासपरम्पाणि ।
प्रियोपभोगेन विनापि वीर
श्चकार य. शत्रुवधूमुखानि ।। ८६ ॥

यस्मिन् महीं पालयति क्षितीन्द्रे
भुजेन भोगीश्वरभोगभसा।
प्रत्यर्थिनः केवलमर्थिनश्च
देहीति वार्ता न बभूव भूमौ ॥ ८७ ॥

अरों मघोनः सुरसुन्दरीमि
सञ्जायमानस्वभुजानुभावः ।
देष्णा स रत्नाकरमेखलया
धुरं धरित्र्या बिभराम्बभूव ॥ ८८ ॥

विचक्षणस्तस्य नरेश्वरस्य
समस्तकायम्बुधिकर्णधारः ।
पुरन्दरस्येव गुर्बभूव
मन्त्री प्रधानं शुकनासनामा ।। ८९ ॥

तस्मिन् महीभारमसौ निवेश्य
सामन्तचूडामणिचुम्बिताङ्घ्रः ।
रेमे युवान्तःपुरसुन्दरीभिः
यथा पुमान् गोपवधूभिराद्यः ॥ ९० ॥

८७ . प्रयर्थिनः शत्रो: देही देहनिति बात न बभूव । झटीिन याचस्य देहि प्रयच्छ इति वार्ता न बभूव । सद्धेऽपि शश्रवो हताः, सङ्केऽपि याचः पूर्णमनोरथा इति यावत् ।