पृष्ठम्:कादम्बरीकथासारः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

न नाम काम परमार्थतोऽपि
विलसवयमतिमानुभावा ।
महीपतेस्तस्य बभूव पती
पुरन्दरस्येव पुलेमपुत्री ॥ ९१ ॥

अकृत्रिमप्रेमरसानुविद्धा
क्न्योन्यमानन्दपयेधिमौ ।
तौ दम्पती कैश्चिदहोभिरेव
सञ्जातसौहार्दसुखावभूताम् ॥ ९२ ॥

नरपतिरपि रेमे मन्त्रि नक्षिप्तकार्यः
क्षणविरहविहीनः कान्तया राजपुत्र्या ।
अयमपि शुकनासः प्रज्ञयायासहीनं
गुरुतरमपि सर्वे राज्यभरं बभार ।। ९३ ॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृतौ कादम्बरी कथासारसङ्गदाख्ये काये तृतीयः

सर्गः समाप्तः ।