पृष्ठम्:कादम्बरीकथासारः.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

अपुत्राणां नृणां लोका न संति किल शोभनाः ।
पुन्नान्नो नरकत्क्रूरात्पुत्रः सन्त्रायते ततः ॥ ११ ॥

एतछ्रुत्वा स्वभवनमागत्यात्यन्तदु:खिता ।
नाङ्गीकरोत्याभरणं नाहारममिनन्दति ॥ १२ ॥

अनर्गल्लगलद्धप्पधाराक्लुषितानना ।
सखीभिः सान्त्वनैरुक्ता रोदिीयमनुत्तरा ॥ १३ ॥

इदमेव महीपाल ! देव्या रुदितकारणम् ।
इत्थं मकरिका राजे विज्ञाप्य विरराम सा ॥ १४ ॥

तारापीडतु तद्वाक्यमाकर्यं श्रुतिदुःसहम् ।
शोकशङ्कुनिखात मा तस्थौ तूष्णीं क्षणं तदा ॥ १५

देवि! किं क्रियतामत्र दैवाधीनेषु वस्तुषु ।
अलं रुदित्वा नः स्वस्ति भूयो दैवं विधास्यति ॥ १६

विधेहि देवतापूजां भकिं गुबने कुरु।
शपानुग्रहणे शक्तान्मुनीनभ्यर्चयादरात् ॥ १५ ॥

अ राधिताः प्रयत्नेन भक्तिपूर्वं महर्षयः ।
अभीष्टफलदा रो भक्तानां नात्र संशयः ॥ १८ ॥

राज बृहद्रथो नाम कैौशिकस्य प्रभावतः ।
जरासन्धं महाबाहुं मापेति भूयते सु म् ॥ १९ ॥

राजा पन्क्तिरथो लेमे विभण्डक्सुतज्ञ।
भुजानारायणस्येव चतुरश्चतुरान्सुतान् ॥ २० ॥

अन्येऽपि बहवो देवि! सत्यसन्धा महीक्षितः ।
मुनिशुद्धया पुत्रानलभन्तामितौजसः ॥ २१ ॥