पृष्ठम्:कादम्बरीकथासारः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५

श्री त्रिविक्रमविरचितः

हर्म्यवातायनस्थायाः राजा देव्या मुखाम्बुजम् ।
स्वरे विशन्तमद्राक्ष चन्द्र सम्पूर्णमण्डलम् ॥ ३१ ॥

प्रबुध्यायन्तहृष्टात्मा तारापीडोऽपि तत्क्षणम् ।
आहूय शुकनासाय स्म तमगदच्छुभम् ॥ ३२ ॥

शुकनासः सुखोदर्कमाकर्यं स्वप्रमद्भुतम् ।
तारापीडं धरापालनमिदं प्रत्यब्रवीद्वचः ॥ ३३ ॥

सत्पुत्रवदनांभोजसन्दर्शनमहोत्सवम् ।
अचिरादेव देव! त्वं सत्यमासादयिष्यसि ॥ ३४ ॥

मयाद्य दिव्यरूपेण पुण्डरीकं द्विजन्मना ।
उत्सङे निहितं स्वप्ने मद्ब्राह्मण्या विलोकितम् ॥ ३५ ॥

निशावसाने संहृष्टाः स्वमाः सद्य:फला यतः ।
प्राचीव तपनं देवी कुमारं जनयिष्यति ॥ ३६ ॥

हस्ते गृहीत्वा स्नेहात्तं प्रविश्याभ्यन्तरं द्रुतम् ।
ताभ्यामानन्दयांची स्वमाभ्यां महिषीं नृपः ॥ ३७ ॥

अथ देवी महाकालवासिनः पुरशासिनः ।
अनुग्रहक्शात्तस्मिन्काले धतेस्म दौहृदम् ॥ ३८ ॥

गर्भच्छलेन भूपालं सा विलासवती दधौ ।
पझिनी प्रतिमाव्याजात्प्रसन्नेव प्रभाकरम् ॥ ३९ ॥

तथाभूतां विलोक्यैनामथान्तःपुरिको जनः ।
इङ्गितज्ञो विदामास जाततदैौहृदलक्षणाम् ॥ ४० ॥


२३. सुखं उदॐ आगामिनि बळे यस्य तत् ।