कादम्बरीसारः
३५
प्रधानभूता सर्वान्तःपुराणां कुलवर्धना।
राज्ञे विज्ञापयामास देवीं सजातदौहृदाम् ॥ ४१ ॥
तया निगदितां वाचममृतादपि शीतलाम् ।
सतृष्ण इव भूपालः श्रवणाञ्जलिना पपौ ॥ ४२ ॥
आविस्मिताननांभोजः कुलवर्धनयोदिताम् ।
शुकनासाय तां प्रीतिं जगाद जगतीपति. ॥ ५३ ॥
स च तां वाचमाकर्थ जगदाह्यदकारिणीम् ।
अङैरुपुलकैर्मातुं स्वाशये नाशकन्मुदम् ॥ १४ ॥
नृपतिः शुकनासेन सह पत्नीं व्यलोकयत् ।
बृहस्पतिसमायुक्तः पौलोमीमिव वासवः ॥ ४५ ॥ ।
सायं संप्रोप्य हृष्टात्मा मन्दिरं प्रति मन्त्रिणः ।
तारापीडस्तया तत्र तां निशामत्यवाहयत् ॥ ४६ ॥
ततः शनैर्वर्धमानगर्नभारालसा भृशम् ।
पीततोयेव मेघाली मन्दमन्दं चचार सा ॥ ४७ ॥
दधती सत्यपि सुतं धरणीधारणक्षमम् ।
नासहिeोरसा हारमित्येतत्परमद्भुतम् ॥ ४८ ॥
बहिर्गतेन यशसा गर्भस्थस्येव भूभुजः ।।
तदाननमभूतं शरकाण्डविपाण्डरम् ॥ ४९ ॥
निस्तीर्य गर्भजं दुःखं कला चान्द्रीव शारदी ।
अवापानुकलं पुष्टिमगैरम्बुजलोचना ॥ ५० ॥
छत्रस्यमिवाञ्जालीमन्तरनिमिवारणिम् ।
गूढसिंहामिव गुहां ससत्वां ताममंस्त सः ॥ ५१ ॥