शास्त्रेष्वपि च सर्वेषु शम्सेसु सकलेषु च ।
अत्रकार्षीकुमारस्य स वैसम्पायनोऽपि चः ।। १८ ॥
सह संवर्धनेनाप सहसडनेन च ।
चन्द्रापीडस्य’ सञ्जातः द्वीतीयं हृदयं हि' सः ॥ १९ ॥
अनङ्गमङ्गलागारं भृकुलदैक्तम् ।
पैौवनं ललितकरः स प्रपेदे शनैः शनैः ॥ २० ॥
युगदीच भुजौ कन्धः ककुझककुदोपमः ।
वक्षः कवाटकसं कुमारः स्फुटयौवनः ॥ २१ ॥
अधीताशेषविधे तमेवमारूढयौवनम् ।
चन्द्रापीड समाकर्यं राजा हृष्टतमोऽभवत् ॥ २२ ॥
अथाशुतनय राजा समानेतुं समुत्सुकः ।
बाहकाख्यमाहूय प्राहिणोद्वाहिनीपतिम् ।। २३ ।।
स तु विद्यागृहं गत्वा बहिः स्थित्वा निवेद्य च।
तदाज्ञया प्रविश्यान्तरीसीत्तं सगौरवम् ॥ २४ ॥
ततः क्षणमिव स्थित्वा तत्समीपे तदाज्ञया ।
बलाहकः सविनयं चन्द्रापीडं व्यजिज्ञपत् ।। २५ ।।
अधीतानीश ! शास्त्राणि शिक्षिताः सफलाः कलाः ।
सर्वास्वायुधविद्यासु गतोऽसि परमां स्थितिम् ॥ २६ ॥
विभागृहादनुमतो निर्गमायासि भूभुजा ।
पञ्जरादिव निमोंक्तुं किशोरमिव केसरी ॥ २७ ॥
कलाकलनमधिगतं हृदयाद्दकारिणम् ।
समुत्सुकस्त्वां पर्यन्तु पूर्णचन्द्रमिव प्रजाः ॥ २८ ॥
पृष्ठम्:कादम्बरीकथासारः.pdf/६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
कादम्बरीकथासारः