अधिकलमसञ्जातां दधान स्वेदविपुषम् ।
रत्नकल1 जस्मल्लश्नां मुक्तामभिनवमिव ॥ ४० ॥
रंह स्वनं इयवरं मनसो मस्तदपि ।
चन्द्रापीडस्तमद्राक्षीद्विस्मयस्तिमितेक्षणः ॥ ४१ ॥
समस्तलक्षणोपेतं दृष्ट्वा तुतं तुरङ्गमम् ।
विस्मितश्चिन्तयामास धीरमधृतिरप्यसौ ॥ ४२ ॥
सर्वथा शापजातोऽयं मन्ये देव इति स्फुटम् ।
अवस्थामीदृसीं देवः श्रूयते हि गता इति ॥ ४३ ॥
रम्भां स्थूलशिरा नाम शशापाप्सरसो मुनिः ।
सा चिरं बडवा भूत्वा शतधन्वानमाश्रिता ॥ ४४ ॥
कुमारश्चिन्तयन्नेवमारुथुर्हयोत्समम् ।
भद्रपीठात्समुत्तस्थौ पर्वतादिव केसरी ॥ ४५ ॥
निगालं पाणिनास्फाल्य सादरं प्रणिपत्य च ।
अध्यक्षत्कुमारस्तं यथै वै.श्रवसं हरिः ॥ ४६ ॥
इन्द्रायुध समारुष चन्दापीडो विनिर्गतः ।
अनेकसद्भयमधीयं ददर्शाभिमुखागतम् ॥ ४७ ॥
बलाहकेन प्रत्येकं नामग्रहणपूर्वकम् ।
निर्दिष्टा राजपुत्रास्ते चन्द्रापीडमनंसिषुः । ४८ ॥ ।
चन्द्रापीडस्तु तान्सर्वान्सम्मान्य च यथाक्रमम् ।
नगरामिमुखं तूर्णं प्रतस्थे सेनया सह ॥ ४९ ॥
1. जलालम इति मातृव।
४. निगाळः गलोद्देशः ।