कर्णजाहनतेनैव प्रीतिस्निग्धेन चक्षुषा ।
भावमन्तर्गतं तस्य कामिनी काचिदब्रवीत् ।। ५९ ।।
चन्द्रापीडं समालोक्य काचिदापादशेखरम् ।
इतराणीन्द्रियाण्यैच्छदतृप्त भवितुं दृशी ॥ ६० ॥
मनांसि मदिराक्षीणां पश्यन्तीनां सविभ्रमम् ।
च्छायेवादर्शबिम्बानि प्रविष्टभूत्तदाकृतिः ॥ ६१ ॥
कथाः श्रोत्रसुखः शृण्वन्स्मरार्तानां मृगीदृशाम् ।
तूर्णं राजकुलं प्राप स वैशम्पायनान्वितः ॥ ६२ ॥
तस्मिन्निन्दीवरश्यामे गते च नृपनन्दने ।
तमेव मार्गमैक्षन्त मार्ताः कमलेक्षणाः ॥ ६३ ॥
प्राप्य राजकुलद्वारं रथाश्वगजपतिमान् ।
पौराभिवन्दितो वाहादवार्क्षन्तृपात्मजः ॥ ६४ ॥
कक्ष्यान्तराण्यतिक्रम्य कमनीयानि कानिचित् ।
आस्थानमण्डपगतं तारापीडं ददर्श सः ॥ ६५ ॥
किरीटबद्धाञ्जलिभिर्भपालैरभिसेवितम् ।
दूरात्सप्रश्रयं मूर्धा तातं प्रणिपपात सः ॥ ६६ ॥
अथ त प्रणत भक्त्या दभ्या प्रणयपूर्वकम् ।
उध्दृत्य च बलाद्भाडमाशिश्लेष नरेश्वरः ॥ । ६७ ।।
ततस्तेन समादिष्टः पापीठस्य सन्निधौ ।
चन्द्रापीडः सविनयं न्यषीदद्धरणीतले ॥ ६८ ॥
आश्लिष्टः पुत्रवनेम्णा तारापीडेन सादरम् ।
शुकनासस्य पुत्रोऽपि निषसाद महीतले ॥ ६९ ॥
पृष्ठम्:कादम्बरीकथासारः.pdf/७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
श्री त्रिविक्रमविरचितः