पृष्ठम्:कादम्बरीकथासारः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
श्री त्रिविक्रमंत्रिरचित

प्रविश्याभ्यन्तरं दृष्ट्वा वैशम्पायनमातरम् ।
पूर्वं सङ्कल्पितं पित्रा कुमारो भवनं ययौ ॥ ८१ ॥

समस्तमङ्गलेपेतं स्क्शय्यागृहमन्त्रा ।
इन्द्रायुधस्यावस्थानमकल्पयदरिन्दमः ।। ८२ ।।

अथास्तं भास्वति 'माप्ते तास्ताः कृत्वोचिताः क्रियाः।
राजपुत्रैः समे तत्र तां निनाय निशीथिनीम् ॥ ८३ ॥

कृत्वा प्रगेतनं कर्म चन्द्रापीडो यथाविधि।
जनकेनाभ्यनुज्ञातो मृगयायै वनं ययौ ॥ ८५ ॥

तत्र व्याघरादीन्बहून्वरख्यातविक्रमः ।
स ललाटन्तमे पूष्णि हत्वा निववृते वनात् ॥ ८५ ॥

स्नानभोजनकर्माणि कृत्वा स्यविदां वरः।
कुमारः पादचारेण पितरं द्रष्टुमभ्यगात् ॥ ८६ ॥

प्रणम्य पितरं मूत्रं स्थित्वा तत्सविधे क्षणम् ।
कुमारो मृगयोङ्कतां सद्यः अन्तिमथाकरेत् ॥ ८७ ॥

अन्येद्युः कन्यया सार्ध कयापि कमनीयया ।
प्राप्तं कैलासनामानं सौविदलं ददर्श सः ।। ८८ ॥ ।

भक्तिपूर्व प्रणम्याथ कञ्चुकी तं व्यजिज्ञपत् ।
कुमार ! देवी स्वामेवमाज्ञापयति सादरम् ॥ ८९ ॥

कन्येयं पत्रलेखरख्या कुलूनाधिपतेः सुता ।
वन्दीजनैः सहानीता वर्धिता च मया चिरम् ।। ९० ।।

८४. प्रगेतनं = प्रात:शलीनम्
८८, सौविदछ: = वशी ।