पृष्ठम्:कादम्बरीकथासारः.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
श्री त्रिविक्रमविरचितः

विशन्त्ययलेन परं गुरूणां
भानोरिवाच्छस्फटिकं मयूखः ॥ ९८ ॥

अप्राप्तकामस्य गुरूपदेशः
सम्यग्विनीतस्य तवाद्य योग्यः ।
कामेषुभिर्मर्मरिते न चित्ते
लगेत्पयोबिन्दुरिवाब्जपत्रे ।। ९९ ।।

मनस्य कन्दर्परसेषु गाढं
संख्यावतामप्युपदेशवाक्यम् ।
मलापहारि श्रवणोदरस्थं
शूलं पयः शुद्धमिवातनोति ॥ १०० ॥

बहुश्रुतस्यापि च यौवनादौ
रागेण पक्कैरिव शुद्धमम्भः ।
प्रसादमुच्चैः सहजं विहाय
कालुप्यमौपाधिकमेति चेतः ॥ १०१ ॥

करेण तीवेण च तिग्मभानो
रत्नप्रभाभिध निरन्तराभिः ।
ज्वालाभिरफेरपि गाढजाते
तमोऽनपो विल यौवनादौ ॥ १०२ ॥

सम्प्राप्य सम्यग्भवबन्धभाव
मविधयानन्तमिवाशु चेतः ।
निजं विहायाच्छतरं स्वभाव
प्रयाति मालिन्यमुपाधिसिद्धम् ॥ १०३ ॥