पृष्ठम्:कादम्बरीकथासारः.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
कादम्बरीकथासारः

गमैश्वरत्वं नवयौवनत्वं
रूषाधिकत्वं च बलोत्तरत्वम् ।
पुंसामिहैकैकमनर्थकारि
सर्वाणि यस्मिन्क्षुि तस्य तानि ॥ १०४ ॥

गराच्च सम्मोहनशक्तिमुत्र
राग च कल्पद्रुमपल्लवेभ्यः ।
मद च मद्यपरिगृह्य लक्ष्मीः
प्;रमथ्यमानादुदधेरुदस्थात् ॥ १०५ ॥

भुजैश्चतुर्भिः पुरुषोत्तमेन
मन्थाचलस्य अमितस्य वेगात् ।
आरूढया सनयेव लक्ष्मी
रद्यापि न भ्रान्तिमहो जहाति ॥ १०६ ॥

लब्ध्वा कचित्प्राक्तन्पुण्यलेशै
नवैव सम्यक्परिपालितापि ।
गुणेन बद्धापि दृढे विलोला
तटिलतेव प्रपलायते श्रीः ॥ १०७ ॥

विलद्वययुन्नतमयुदार
माशीविषं क्रुद्धमिवाभिजातम् ।
सरस्वती सक्तमसूययेव
स्वप्नेऽपि नालिति राजलक्ष्मीः ।। १०८ ॥

प्रायेण कामं धनिनो धनेषु
तृष्णा परिज्ञानवतोऽपि गुर्वी ।