पृष्ठम्:कादम्बरीकथासारः.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
कादम्बरीकथासारः

अकण्टकामस्खलितप्रतापः
चिराय पित्रा सह सागरान्ताम् ।
आजानुलम्बेन भुजेन भूमि-
मष्टादशद्वीपवतीं प्रशाधि ॥ ११५ ॥

इति बहुविधं तस्माछ्रुत्वोपदेशमुदारधीः
परिणतिसुखं चन्द्रापीडः सकौतुकमादरात् ।।
दृशमिव दृशाहीनो विद्यां परामिव मन्दधी-
निधिमिव भृशं रिक्तो लब्ध्वा सहृष्टतमोऽभवत् ॥ ११६॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशोखरस्य
राजराजसूनोः श्री त्रिविक्रमस्य कृतौ कदम्बरी‌-
कथासारसंग्रहाख्ये काव्ये पञ्चम: सर्गः ।