ब्राण्डमविशद्धलिखीचझ्मणोस्थिता ।
युगान्ते भूतधात्रीव साक्षानारायणोदरम् ।। २१ ।।
पहिले स्वर्णदीतोये पांसुना देवयोषिताम् ।
मुखान्याकण्ठमग्नानां कफजत्वं प्रपेदिरे ॥ २२ ॥
गण्डेषु गन्धकरिणामेलरेणुसुगनिः ।
पतितानां मधुलिहां जानुदघ्नं रजोऽभवत् ।। २३ ।।
चामरैर्वीज्यमानैश्च लोलैर्वजपटैरपि ।
कर्णतालैश्च 1करिणां शान्तिं रेणुः शनैर्यये ॥ २५ ॥
दिङ्मुखेषु प्रसन्नेषु सवैशम्पायनः शनैः।
2दृष्टा व्याप्तभुवं सेनां चन्द्रापीडमभाषत ॥ २५ ॥
युवराजाधिराजेन तारापीडेन साम्प्रतम् ।
अजितं वद तार्किन्नु यज्जेष्यसि महीतले ॥ २६ ॥
पश्य यस्यां दिशि यदा चक्षुर्विक्षिप्यते मया ।
तस्यां तदापरिमितं प्रसृत इव भूर्बलम् ॥ २७ ॥
शुष्षन्नित्थं वचस्तस्य स्फुरत्यहनि भास्वति ।
स प्राप वसतिं रम्यां पटमण्डपशालिनीम् ॥ २८ ॥
तत्र तास्ताः क्रियाः कृत्वा वैशम्पायनपूर्वकम् ।
पत्रलेखा द्वितीयोऽसौ क्षपयामास तां क्षपाम् ॥ २९ ॥
अन्येद्युरखिला जेतुमाश विख्यातविक्रमः ।
आकम्पयन्बलभरैः प्रतस्थे पर्वतानपि ।। ३० ॥
1. कोरणामित मातृका । 2. दृष्टघ। ईत मातृका !
२१. भूतधात्री भूमिः ।