अच्छोदं नाम गम्भीरं तदुपज्ञमिदं सरः ।
एतच्चैत्ररथ नाम न च तदुपक्रमम् ।। ३१ ।।
सुरासुरेन्द्रकोटीरसड्घुष्टमणिपादुकः।
अत्र कात्यायनीकान्तः तेनथे स्थापितो हरः ॥ ३२ ॥
अरिष्टयास्तु हंसाख्यो गन्धर्वकुलशेखरः।
षण्णां तुभ्युमुख्यानां ज्येष्ठो आता सुतोऽभवत् ।। ३३ ॥
स तु चित्ररथेनैव अत्र हंसोऽभिषेचितः ।
कुमार एव गान्धर्वं साम्राज्यपदमानशे ॥ ३४ ॥
दोर्दण्डबलविख्यातैः गन्धर्वैः परिपालितः ।
स एव गिरिरावासस्तस्यापि तपनद्युतेः ॥ ३५ ॥
यत्तु शीतांशुकिरणाऽजातमप्सरसां कुलम् ।
सञ्जाता कन्यका तत्र लक्ष्मीरिव पयोनिधौ ॥ ३६ ॥
सौभाग्यसम्पदः सीमा सौन्दर्यगुणशालिनी ।
सा न नामैव मूर्चापि गौरीति प्रथिताऽभवत् ।। ३७ ।।
हंसो हरिप्रभावस्तां देवसेनामिवाग्निभूः ।
रूपशीलादिसम्पन्नामुपायंस्त यथाविधि ।। ३८ ।।
पद्मिनीव शरत्कालं चन्द्रिकेव सुधाकरम् ।
अनुरूपं तमासाद्य शुशुभे सा शुचिस्मिता ।। ३९ ॥ ।
दाम्पत्यमनयोरासीदवातनसगोचरम् ।
परमानन्दविश्रान्तं शिवयोरिव यामलम् ॥ ४० ॥
तयोश्च तादृशः पित्रोरीदृशी दुःखभाजनम् ।
अहमेकैव तनया जाता शोकाय केवलम् ॥ ४१ ॥
पृष्ठम्:कादम्बरीकथासारः.pdf/९०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
श्री त्रिविक्रमविरचितः