पृष्ठम्:कादम्बरीकथासारः.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
कादम्बरीकथासारः

एनां ददौ कल्पतम्पसूतां
क्रन्दद्विरेफं कलिकाममुष्मै ।। ८९ ।।

याआमनादृत्य गतं तदीयां
बलादनिच्छन्तममुं निरुध्य ।।
तस्याः समादाय करादमुष्य
कर्णं सुगन्धिं कालिकामकार्षम् ॥ ९० ॥

इत्येवमुक्ता विरतेऽथ तस्मिन्
ज्ञात्वा मदिच्छां मधुरस्वभावः ।
कथं युवा तां कलिकां मदीये
कम्पोत्तरेणात्मकरेण चक्र ॥ ९१ ॥

ततः करस्पर्शसुखेन तस्य
मुहुर्मुहुः कण्ठविताङ्गयष्टिः ।
अतिष्ठमावि:श्रमवारिणाहं
मुखेन पारिप्लवलोचनेन ॥ ९२ ॥

अथ क्षणात्सोपि युवा नितान्तं
बाणेन विद्धो हृदि पुष्पक्रेनोः ।
वैयेणे साधे न करारविन्दा
च्च्युतां विवेद स्फटिकाक्षमालाम् ॥ ९३ ॥

एनां गृहीत्वा हृदये निधाय
सद्यः समुत्कम्पचता करेण ।
तद्रात्रसंस्परोमुखानुभूतं
तत्कालयोभ्यामहमन्वभूवम् ॥ ९४ ॥