पृष्ठम्:कादम्बरीकथासारः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
श्री त्रिविक्रमविरचितः

तदिङ्गिताकरविलोकनेन
भूयोऽपि संवर्धितकामबाधा ।
अवर्णनीयां चसां प्रपठे
कामप्यवस्थां क्षणमन्वभूवम् ।। ९५ ॥ ।।

इत्थं प्रवृत्ते सति रागबन्धे
सम्प्राप्य मां वाचमुवाच चेटी ।
त्वत्प्राप्तिकालं परिपाल्य देवी
स्नाता चिरात्स्वामिनि ! तिष्ठतीति ॥ ९६ ॥

अहं च तस्या वचनेन खिन्ना
वन्या वरोव प्रथमाङ्कशन ।
अगच्छमाकृष्य शनैस्तदास्या-
श्रोतामिव प्रेमगुणेन दृष्टिम् ॥ ९७ ॥

ततो गतायां मयि सानुतापं
तथाविधं तस्य विलोक्य धैर्यम् ।
विनेतुकामो बेिरसIऽशयः त
कपिञ्जलः क्रूरमिदं बभाषे ।। ९८ ।।

सखे ! किमेतत्तव युक्तरूपं
किं वा जटानमुत वल्कलानाम् ।
पुरः कराग्रादपि वेपमाना
यदक्षमालां गलितां न वेत्सि ।। ९९ ॥

तस्मिन्वदत्येवमनुद्रुतो मा
मलीककोपस्फुरिताधरोष्ठम् ।