पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/124

एतत् पृष्ठम् परिष्कृतम् अस्ति

भक्तिरनुवृत्तिर्चा । कार्यगौरवकृतं कुतूहलमेवदेवावलोकनं प्रति
बलात्प्रेरयत्यस्मान् । यदि भवतामपि वार्त्तामात्रकोपलभ्य एवाय-
मर्थस्ततो युज्यतेऽस्माकंभवद्ध्यः समुपलभ्य प्रतिगमनम् । अथ
नयनविषयगामी । तदा वयमपि नेदृशा एवापुण्यकर्माणो ये न
(५)पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरणपरिचर्यया देवस्य
पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन
प्रसादं कृतवानेव देवः । किमद्य जातं येन देवस्य पादारविन्द-
वन्दनाप्रसादेनासंविभज्य विसृज्यामहो । त एव वयं पादलग्नाश्च-
रणरेणवः । यद्विज्ञाप्य देवीं देवस्य युवराजस्य पादप्रणामेना-
(१०)स्माकं सफलयतु भवानागमनपीरश्रमम्।अन्यथा भूमिमेतावती-
मागत्य संभवे सत्यप्रत्यक्षीकृतयुवराजशरीरा गताः सन्तः किं
देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो विज्ञाप-
यितव्यः । इत्यावोदिते देवी प्रमाणम् । इति विज्ञाप्य पुनस्तूर्प्णां
स्थितवति मेघनादे तत्कालं समुत्प्रेक्षितानाश्वासश्वृशुरकुलवैक्लव्या-
(१५)द्विलीयमानेव शुचान्तःसञ्चितं बाष्पमाकुलिततरलतारकाभ्यामापि-
बन्ती लोचनाभ्यां गद्गादिकयावगृह्यमाणकण्ठी कथं कथगपि चि-
रात्कादम्बरी प्रत्युवाच । स्थान एव हि तैरगमनमङ्गीकृतम् ।
अनवलोक्य देवमेवमेव याताः सन्तः किमुच्यन्ताम् । अपि च
वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलोकनेनापि न संप्र-
(२०)त्ययः समुत्पद्यते । किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शि-
तप्रेमपल्लवा वल्लभतमजीविता वयमपि यावत्पश्यामस्तं तावदनपे-
क्षितप्राणवृत्तयः स्नेहसद्ध्यवनया सच्दृत्या न पश्यन्तीत्यघटमानक-
मिदम् । तदपरिलम्बितं प्रवेश्यन्ताम् । पश्यन्तु देबम् । सफल-
यित्वागमनपरिश्रमेण सार्धं लोचने ततो यास्यन्तीति । आज्ञा-
(२५)नन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन पञ्चा-

१ सदृश्या इआतईन