पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४१

पुटमेतत् सुपुष्टितम्
[अ. २.
१२१
कामधेनुसहिता।

तेन वचनभेदो व्याख्यातः॥ १५ ॥

 तेन लिङ्गभेदेन वचनभेदो व्याख्यातः ।

 यथा-- 'पास्यामि लोचने तस्याः पुष्पं मधुलिहो यथा ।'

अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥

 अप्रतीतैरेव गुणैर्यत् सादृश्यम् , तत् अप्रतीतगुणसादृश्यम् असादृश्यम् ।

 यथा-- 'ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।'

 काव्यस्य शशिना सह यत् सादृश्यम् , तदप्रतीतैरेव गुणैरिति ।

 ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति; मैवम् ; काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिध्यति ; नाप्यर्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति ।


 वचनभेदं विवेचयितुमाह- तेनेति । पास्यामीति । पास्याम इति वक्तव्ये पास्यामीति प्रयुक्तत्वाद्वचनभेदः ।

 असादृश्यं प्रकाशयितुमाह- अप्रतीतेति। अप्रतीतैः सहृदयसंवादिप्रतिपत्त्यविषयैरित्यर्थः । ग्रथ्नामीति । काव्यशशिनोः सादृश्यमप्रतीतगुणमित्यसादृश्यम् । नन्वर्थानां रश्मिसादृश्यप्रतीत्या काव्यशशिनोरपि सादृश्यं संभवतीति शङ्कते--- नन्विति । परस्पराश्रयपराहतमिदं चोद्यमिति परिहरति-नैवमिति । अर्थानां रश्मिसादृश्ये सिद्धे शशिसादृश्यं काव्यस्य सिध्यति; सिद्धे च काव्यस्य शशिसादृश्येऽर्थानां रश्मिसादृश्यमिति परस्पराश्रय इत्यर्थः । ननु काव्यशशिसादृश्यनिरपेक्षमेव अर्थरश्मिसादृश्यं संभवति ; कुतः परस्पराश्रयप्रसङ्ग इत्यत आह--- नाप्यर्थानामिति । दुरुत्तरः दुष्परिहरः।