पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८१

पुटमेतत् सुपुष्टितम्
[अधि. २.
१६१
कामधेनुसहिता।

 तिरस्कृतशब्दः परिभूते दृश्यते-- 'राज्ञा तिरस्कृतः' इति ; स च न प्राप्नोति । तिरःशब्दस्य हि 'तिरोऽन्तर्धौ' इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्याम् 'तिरसोऽन्यतरस्याम्' इति सकारः । तत्कथं तिरस्कृत इति परिभूते? आह- अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा-- 'लावण्यप्रसरतिरस्कृताङ्गलेखाम् ।'

नैकशब्दः सुप्सुपेति समासात् ॥ ११ ॥

 'अरण्यानीस्थानं फलनमितनैकद्रुममिदम्' इत्यादिषु नैकशब्दो दृश्यते; स च न सिध्यति । नञ्समासे हि 'नलोपो नञः' इति नलोपे 'तस्मानुडचि' इति नुडागमे सति अनेकमिति रूपं स्यात् । निरनुबन्धकस्य नशब्दस्थ समासे लक्षणं नास्ति । तत् कथं नैकशब्द इत्यत्राह-- सुप्सुपेति समासात् ।

मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १२ ॥

पपत्तिमुद्धाटयति- तिरस्कृतशब्द इत्यादिना । समाधत्ते-~~ अन्तर्ध्युपचारादिति । मुख्यपूर्वकत्वाद्गौणस्य मुख्यं दर्शयति-- मुख्यस्त्विति

 नञ्समासे हीति । 'नलोपो नञः' इति नकारलोपे सति, तस्मान्नु डचि' इति नुडागमे च कृते, अनेकमिति रूपं स्यात् , न तु नैकमिति । ननु न सिध्यति चेन्मास्तु नसमासः; प्रकारान्तरेण किं न स्यादित्यत आह-निरनुबन्धकस्येति । सुप्सुपेति । 'सुबामन्त्रिते पराङ्गवत्स्वरे' इत्यतः सुबित्यनुवृतौ, 'सह सुपा' इति योगविभागात् सुबन्तं पदं सुबन्तेन सह समस्यत इति समासे नैकशब्दः सिद्धो भवतीत्यर्थः ।

 मधुपिपासुप्रभृतीनामिति । श्रितादिष्वग्रहणान्नात्र द्वितीयासमासः संभबति । नापि कृदन्तेन सह षष्ठीसमासः, 'न लोक--' इत्यादिसूत्रे उप्रत्यया-

21