पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२१

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ काव्यालंकारसूत्रवृत्तिः॥

॥ कामधेनुसहिता ॥


प्रथमाधिकरणम् ॥

प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया ।
काव्यालंकारसूत्राणां स्वेषां वृत्तिर्विधीयते ।

॥ श्रीः ॥

कल्याणानि करोतु नः स भगवान्क्रीडावराहाकृत्ति-
र्दंष्ट्राग्रेण नवप्ररोहपुलकां देवीं धरामुद्वहन् ।
यस्याङ्गेषु वहन्ति लोमविवरालग्ना महाम्भोधयः
कान्तास्पर्शसुखादिव प्रकटितां स्वेदोदबिन्दुश्रियम् ॥ १ ॥

दरोन्मीलत्फालद्युतिमदमृतस्यन्दिशुभिकं
भ्रमन्मीनोष्णीषं पदसरणिपारीणवलयम् ।
विराजहंभावव्यतिकरितपुंभावसुभगं
पुरस्तादाविःस्ताद्भुवनपितरौ तन्मम महः ॥ २ ॥

ओंकारमणिघण्टानुरणन्निगमबृंहितम् ।
चित्ते श्रृङ्खलितं भक्त्या चिन्तये चिन्मयं गजम् ॥ ३ ॥

करुणामसृणालोकप्रवणा शरणार्थिषु ।
प्रगुणाभरणा वाणी स्मरणनुगुणास्तु मे ॥ ४ ॥

उन्मीलप्रतिभानकन्दमुदयत्संदर्भनालं लस-
च्छलेषाद्याकुलशब्दपत्रमतुलं बन्धारविन्दं सदा ।
अध्यासीनमलंक्रियापरिलसद्गन्धं वचोदैवतं
वन्दे रीतिविकासमाशु विगलन्माधुर्यपुष्पासवम् ॥ ५ ॥