तत् क्लिष्टम् | यथा-- 'काञ्चीगुणस्थानमनिन्दितायाः' इति ।
अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥
अश्लीलं क्लिष्टं चैत्यन्त्ये पदे, ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति ।
अश्लीलं यथा-
'न सा धनोन्नतिर्या स्यात्कलत्ररतिदायिनी ।
परार्थबद्धकक्ष्याणां यत्सत्यं पेलवं धनम् ॥'
'सोपानपथमुत्सृज्य वायुवेगः समुद्यतः ।
महापथेन गतवान्कीर्त्यमानगुणो जनैः ॥'
द्धमप्यविलम्बेनार्थाभिधायकं चेन्न तत् क्लिष्टमित्याह---- अरूढावपीति ।
उदाहरति- यथेति ।
अथ अश्लीलक्लिष्टाख्यदुष्टपदद्वयलक्षणसाम्यात् अश्लीलक्लिष्टवाक्यद्वयमपि लक्षितप्रायमेवेत्युपपादयितुं सूत्रमुपादत्ते--- अन्त्याभ्यामिति । प्रतिपत्तिलाघवार्थमप्रकरणेऽप्यभिधानमित्यवगन्तव्यम् । अश्लीलं वाक्यमपि त्रिविधम्; तत्र व्रीडादायि अश्लीलमुदाहरति- यथेति । सा तादृशी । धनोन्नतिः अर्थसंपत्तिः । न भवति । या कलत्ररतिदायिनी कलत्रस्य रतिं प्रीतिं दातुं शीलमस्या इति कलत्ररतिदायिनी, न तु परप्रीतिदायिनी यस्मात्; तस्मात् परार्थबद्धकक्ष्याणां परेषामर्थे प्रयोजने बद्धा कक्ष्या कच्छो यैस्तेषां परोपकारबद्धप्रतिज्ञानामित्यर्थः । 'कक्ष्या कच्छे वरत्रायाम्' इति वैजयन्ती । धनम् अर्थः । यत्सत्यं परमार्थतः । पेलवं मनोज्ञमिति प्रकृतार्थः । अर्थान्तरं तु- साधनस्य शेफस उन्नतिः । 'साधनमुपगमनत्योः शेफसि सिद्धौ निवृत्तिदापनयोः' इति नानार्थमाला । यस्मात् कलत्रस्य रतिं सुरतं दातुं शीलमस्या इति तादृशी न भवति; तस्मात् परासामर्थे बद्धकक्ष्याणां परस्त्रीवशंवदचित्तानामित्यर्थः । धनं पेलवं विरलं भवति । 'पेलवं विरलं तनु' इत्यमरः । अत्र व्रीडादायित्वमतिरोहितम् । अवशिष्टमश्लीलद्वयमुदाहरति-- सोपानेति । सोपानपथमुत्सृज्य ! वायुवेगः वायोर्वेग इव