पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८१

पुटमेतत् सुपुष्टितम्
अ. २.]
६१
कामधेनुसहिता।

मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ १५ ॥

 मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । मुक्तानां शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहारः।

 यथा---'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।

  मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥'

पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ १६ ॥

 पुष्पमालाशब्दे मालाशब्देनैव गतार्थं पुष्पपदं प्रयुज्यते उत्कर्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति ।

 यथा--- 'प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ।'

 ननु मालाशब्दोऽन्यत्रापि दृश्यते; यथा-- रत्नमाला, शब्दमालेति ? स तावदुपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचना-

 मुक्ताहारेत्यादि । सुबोधम् । ननु हसतीव स्तनद्वयामिति हासोत्प्रेक्षणसामर्थ्यादेव हारस्य रत्नान्तरासंवलनलक्षणा शुद्धिः प्रतीयते, न मुक्ताशब्दसंनिधानात् । अन्यथा हासोत्प्रेक्षैव नोदयमासादयेत् । अतो नेदमुदाहरणमिति चेत् , मैवम् ; हारशुद्धिप्रतिपत्त्या हासोत्प्रेक्षा हासोत्प्रेक्षया च हारशुद्धिप्रतिपत्तिरिति परस्पराश्रयप्रसङ्गात् । अतो मुक्ताशब्दसंनिधानादेव हारशुद्धिप्रतिपत्तिरिति भवत्युदाहरणमिदम् । 'हारो मुक्तावली' इत्यभिधानादत्र हारशब्दो मुख्यया वृत्त्या रत्नान्तरासंवलितमुक्तागुणमभिधत्ते । अतः शुद्धेः प्रतिपत्तिः शब्दत एव सिद्धेति यदि पक्षः, तदा पुष्पमालाशब्दे पुष्पपदवन्मुक्ताहारशब्देऽपि मुक्तापदं कस्यचिदुत्कर्षस्य प्रतिपत्त्यै प्रयुज्यते । स चोत्कर्षः-- त्रासादिदोषशून्यत्वम् , स्थूलवृत्तत्वम् , स्वच्छतातिशयश्चेति व्याख्येयम् ।

 पुष्पमालेत्यादि । स्पष्टार्थम् । ननु मालाशब्दस्य रूपहंसमेघादिमालासु प्रयोगदर्शनात् तद्व्यावृत्तिः प्रयोजनं पुष्पपदस्य, न पुनरुक्तिरिति शङ्कते-नन्विति । मालाशब्दः पुष्परचनायां मुख्यः, लाक्षणिकः पुनरन्यत्रेति वृत्तिभेदान्नायं दोष इति परिहरति --- स तावदिति