पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६५-७२]
७१
शिवेन स्मरस्य भस्मसात्करणम्

विम्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यकृता । 'तिर्यगर्थे साचि तिरः' इत्यमरः । तस्थौ, हिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव, देव्या अप्युदितो रतिभाव इति भावः ॥ ६८ ॥

 अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्द्भलवन्निगृह्य ।
 हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ।।

 अथेति ॥ अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रभिनेत्रो वशित्वाजिते- न्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवदृढं निगृह्य निवार्य स्व- चेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिद्रक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृष्टिं ससर्ज प्रसारयामास ॥ ६९॥

 स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् ।
 ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ७० ॥

 स इति ॥ स भगवान् दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमा- कुञ्चितः सव्यपादो यस्य तम् , आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृत- चारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः-'स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्स्यन्तरगौ पादौ मण्डलं तोरणाकृती ॥ समानौ स्यात्समपदमालीढं पदम- ग्रतः । दक्षिणं वाममाकुङ्ग्य प्रत्यालीढं विपर्यय ः ॥' इति ॥ ७० ॥

 तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
 स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ७१

 तप इति ॥ तपःपरामर्शन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तस्य हरस्य तृतीयादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरद्भूतज्वालः कृशानुरग्निः सहसाऽतर्कितमेव । 'अतर्किते तु सहसा' इत्य- मरः । निष्पपात किल निश्शकाम खलु ॥ ७१ ॥

 क्रोधं प्रभो! संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
 तावत्स वह्विर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ७२ ॥

 क्रोधमिति ॥ हे प्रभो स्वामिन् ! क्रोधं संहर संहर निवर्तय निवर्तय ।